|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.229. अध्यायः 229
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
महादेवेन देवींप्रति यमनगरतन्मार्गादिप्रतिपादनपूर्वकं पापिनां यातनानुभवप्रकारादिप्रतिपादनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
उमोवाच।
भगवन्सर्वलोकेश त्रिपुरार्दन शङ्कर।
कीदृशा यमदण्डास्ते कीदृशाः परिचारकाः॥ 13-229-1(90396)
कथं मृतास्ते गच्छन्ति प्राणिनो यमसादनम्।
कीदृशं भवनं तस्य कथं दण्डयति प्रजाः।
एतत्सर्वं महादेव श्रोतुमिच्छाम्यहं प्रभो॥ 13-229-2(90397)
महेश्वर उवाच। 13-229-3x(7613)
शृणु कल्याणि तत्सर्वं यत्ते देवि मनःप्रियम्।
दक्षिणस्यां दिशि शुभे यमस्य सदनं महत्॥ 13-229-3(90398)
विचित्रं रमणीयं च नानाभावसमन्वितम्।
पितृभिः प्रेतसङ्घैश्च यमदूतैश्च सन्ततम्॥ 13-229-4(90399)
प्राणिसङ्घैश्च बहुभिः कर्मवश्यैश्च पूरितम्।
तत्रास्ते दण्डयन्नित्यं यमो लोकहिते रतः॥ 13-229-5(90400)
मायया सततं वेत्ति प्राणिनां यच्छुभाशुभम्।
मायया संहरंस्तत्र प्राणिसङ्घान्यतस्ततः॥ 13-229-6(90401)
तस्य मायामयाः पाशा न वेद्यन्ते सुरासुरैः।
को हि मानुषमात्रस्तु देवस्य चरितं महत्॥ 13-229-7(90402)
एवं संवसतस्तस्य यमस्य परिचारकाः।
गृहीत्वा सन्नयन्त्येव प्राणिनः क्षीणकर्मणः।
यन केनापदेशेन त्वपदेशसमुद्भवाः॥ 13-229-8(90403)
कर्मणा प्राणिनो लोके उत्तमाधममध्यमाः।
यथार्हं तान्समादाय नयन्ति यमसादनम्॥ 13-229-9(90404)
धार्मिकानुत्तमान्विद्धि स्वर्गिणस्ते यथाऽमराः।
त्रिषु जन्म लभन्ते ये कर्मणा मध्यमाः स्मृताः।
तिर्यङनरकगन्तारो ह्यधमास्ते नराधमाः॥ 13-229-10(90405)
पन्थानस्त्रिविधा दृष्टाः सर्वेषां गतजीविनाम्।
रमणीयं निराबाधं दुर्दर्शमिति नामतः॥ 13-229-11(90406)
रमणीयं तु यन्मार्गं पताकाध्वजसङ्कुलम्।
धूपितं सिक्तसंमृष्टं पुष्पमालाभिसङ्कुलम्॥ 13-229-12(90407)
मनोहरं सुखस्पर्शं गच्छतामेव तद्भवेत्।
निराबाधं यथालोकं सुप्रशस्तं कृतं भवेत्॥ 13-229-13(90408)
तृतीयं यत्तु दुर्दर्शं दुर्गन्धि तमसा वृतम्।
परुषं शर्कराकीर्णं श्वदंष्ट्राबहुलं भृशम्।
किमिकीटसमाकीर्णं भजतामतिदुर्गमम्॥ 13-229-14(90409)
मार्गैरेवं त्रिभिर्नित्यमुत्तमाधममध्यमान्।
सन्नयन्ति यथा काले तन्मे शृणु शुचिस्मिते॥ 13-229-15(90410)
उत्तमानन्तकाले तु यमदूताः सुसंवृताः।
नयन्ति सुखमादाय रमणीयपथेन वै॥ 13-229-16(90411)
उमोवाच। 13-229-17x(7614)
भगवंस्तत्र चात्मानं त्यक्तदेहं निराश्रयम्।
अदृश्यं कथमादाय सन्नयन्ति यमान्तिकम्॥ 13-229-17(90412)
महेश्वर उवाच। 13-229-18x(7615)
शृणु भामिनि तत्स्रवं त्रिविधं देहकारणम्।
कर्मवश्यं भोगवश्यं दुःखवश्यमिति प्रिये॥ 13-229-18(90413)
मानुषं कर्मवश्यं स्याद्द्वितीयं भोगसाधनम्।
तृतीयं यातनावश्यं शरीरं मायया कृतम्।
यमलोके न चान्यत्र दृश्यते यातनायुतम्॥ 13-229-19(90414)
शरीरैर्यातनावश्यैर्जीवानामुच्य भामिनि।
नयन्ति यामिकास्तत्र प्राणिनो मायया मृतान्॥ 13-229-20(90415)
मध्यमान्योधवेषेण मध्यमेन पथा तथा॥ 13-229-21(90416)
चण्डालवेषास्त्वधमान्गृहीत्वा भर्त्सतर्जनैः।
आकर्षन्तस्तथा पाशैर्दुर्दर्शेन नयन्ति तान्॥ 13-229-22(90417)
त्रिविधानेवमादाय नयन्ति यमसादनम्।
धर्मासनगतं दक्षं भ्राजमानं स्वतेजसा॥ 13-229-23(90418)
लोकपालं सहाध्यक्षं तथैव परिषद्गतम्।
दर्शयन्ति महाभागे यामिकास्तं निवेद्य ते॥
पूजयन्दण्डयन्कांश्चित्तेषां शृण्वञ्शुभाशुभम्।
व्याहृतो बहुसाहस्रैस्तत्रास्ते सततं यमः॥ 13-229-24(90419)
गतानां तु यमस्तेषामुत्तमानभिपूजया।
अभिसङ्गृह्य विधिवत्पृष्ट्वा स्वागतकौशलम्।
प्रस्तुत्य तत्कृतं तेषां लोकं संदिशते यमः॥ 13-229-26(90420)
यमेनैवमनुज्ञाता यान्ति पश्चात्त्रिविष्टपम्॥ 13-229-27(90421)
मध्यमानां यमस्तेषां श्रुत्वा कर्म यथातथम्।
जायन्तां मानुषेष्वेव इति संदिशते च तान्॥ 13-229-28(90422)
अधमान्पाशसंयुक्तान्यमो नावेक्षते गतान्।
यमस्य पुरुषा घोराश्चण्डालसमदर्शनाः।
यातनाः प्रापयन्त्येताँल्लोकपालस्य शासनात्॥ 13-229-29(90423)
भिन्दन्तश्च तुदन्तश्च प्रकर्षन्तो यतस्ततः।
क्रोशन्तः पातयन्त्येतान्मिथो गर्तेष्ववाङ्मुखान्॥ 13-229-30(90424)
संयामिन्यः शिलास्तेषां पतन्ति शिरसि प्रिये।
अयोमुखाः कङ्कवला भक्षयन्ति सुदारुणाः॥ 13-229-31(90425)
असिपत्रवने घोरे चारयन्ति तथा परान्।
तीक्ष्णदंष्ट्रास्तथा श्वानः कांश्चित्तत्र ह्यदन्ति वै॥ 13-229-32(90426)
तत्र वैतरणी नाम नदी ग्राहसमाकुला।
दुष्प्रवेशा च घोरा च मूत्रशोणितवाहिनी।
तस्यां सम्मज्जयन्त्येते तृषितान्पाययन्ति तान्॥ 13-229-33(90427)
आरोपयन्ति वै कांश्चित्तत्र कण्टकशल्मलीम्।
यन्त्रचक्रेषु तिलवत्पीड्यन्ते तत्र केचन॥ 13-229-34(90428)
अङ्गरेषु च दह्यन्ते तथा दुष्कृतकारिणः।
कुम्भीपाकेषु पच्यन्ते पच्यन्ते सिकतासु वै॥ 13-229-35(90429)
पाट्यन्ते तरुवच्छस्त्रैः पापिनः क्रकचादिभिः।
भिद्यन्ते भागशः शूलैस्तुद्यन्ते सूक्ष्मसूचिभिः॥ 13-229-36(90430)
एवं त्वया कृतं दोषं तदर्थं दण्डनं त्विति।
वाचैव घोषयन्ति स्म दण्डमानाः समन्ततः॥ 13-229-37(90431)
एवं ते यातनां प्राप्य शरीरैर्यातनाशयैः।
प्रसहन्तश्च तद्दुःखं स्मरन्तः स्वापराधजम्॥ 13-229-38(90432)
क्रोशन्तश्च रुद्रन्तश्च न मुच्यन्ते कथञ्चन।
स्मरन्तस्तत्र तप्यन्ते पापमात्मकृतं भृशम्॥ 13-229-39(90433)
एवं बहुविधा दण्डा भुज्यन्ते पापकारिभिः।
यातनाभिश्च पच्यन्ते नरकेषु पुनः पुनः॥ 13-229-40(90434)
अपरे यातनां भुक्त्वा मुच्यन्ते तत्र किल्बिषात्।
पापदोषक्षयकरा यातनाः संस्मृता नृणाम्।
बहुतप्तं यथा लोहममलं तत्तथा भवेत्॥ ॥ 13-229-41(90435)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनत्रिंशदधिकद्विशततमोऽध्यायः॥ 229 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|